|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.36. अध्यायः 036
Mahabharata - Adi Parva - Chapter Topics
शेषस्य ब्रह्मणो वरलाभः पृथ्वीधारणाज्ञा च॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
शौन उवाच। 1-36-0x(163)(1683)
आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः।
शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्॥ 1-36-1(1684)
सौतिरुवाच। 1-36-2x(164)
तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः।
उग्रं तपः समातस्थे वायुभक्षो यतव्रतः॥ 1-36-2(1685)
गन्धमादनमासाद्य बदर्यां च तपोरतः।
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे॥ 1-36-3(1686)
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च।
एकान्तशीलो नियतः सततं विजितेन्द्रियः॥ 1-36-4(1687)
तप्यमानं तपो घोरं तं ददर्श पितामहः।
संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्॥ 1-36-5(1688)
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः।
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु॥ 1-36-6(1689)
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ।
ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः॥ 1-36-7(1690)
शेष उवाच। 1-36-8x(165)
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः।
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्॥ 1-36-8(1691)
अभ्यसूयन्ति सततं परस्परममित्रवत्।
ततोऽहं तप आतिष्ठे नैतन्पश्येयमित्युत॥ 1-36-9(1692)
न मर्षयन्ति ससुतां सततं विनतां च ते।
अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः॥ 1-36-10(1693)
तं च द्विषन्ति सततं स चापि बलवत्तरः।
वरप्रदानात्स पितुः कश्यपस्य महात्मनः॥ 1-36-11(1694)
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्।
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः॥ 1-36-12(1695)
तमेवं वादिनं शेषं पितामह उवाच ह।
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्॥ 1-36-13(1696)
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्।
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम॥ 1-36-14(1697)
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि।
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्॥ 1-36-15(1698)
दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि।
दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम।
भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा॥ 1-36-16(1699)
शेष उवाच। 1-36-16x(166)
एष एव वरो देव काङ्क्षितो मे पितामह।
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर॥ 1-36-17(1700)
ब्रह्मोवाच। 1-36-18x(167)
प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च।
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्॥ 1-36-18(1701)
इमां महीं शैलवनोपपन्नां
ससागरग्रामविहारपत्तनाम्
त्वं शेष सम्यक् चलितां यथाव-
त्संगृह्य तिष्ठस्व यथाऽचला स्यात्॥ 1-36-19(1702)
शेष उवाच। 1-36-20x(168)
यथाऽऽह देवो वरदः प्रजापति-
र्महीपतिर्भूतपतिर्जगत्पतिः।
तथा महीं धारयिताऽस्मि निश्चलां
प्रयच्छतां मे विवरं प्रजापते॥ 1-36-20(1703)
ब्रह्मोवाच। 1-36-21x(169)
अधो महीं गच्छ भुजङ्गमोत्तम
स्वयं तवैषा विवरं प्रदास्यति।
इमां धरां धारयता त्वया हि मे
महत्प्रियं शेष कृतं भविष्यति॥ 1-36-21(1704)
सौतिरुवाच। 1-36-22x(170)
तथैव कृत्वा विवरं प्रविश्य स
प्रभुर्भुवो भुजगवराग्रजः स्थितः।
बिभर्ति देवीं शिरसा महीमिमां
समुद्रनेमिं परिगृह्य सर्वतः॥ 1-36-22(1705)
ब्रह्मोवाच। 1-36-23x(171)
शेषोऽसि नागोत्तम धर्मदेवो
महीमिमां धारयसे यदेकः।
अनन्तभोगैः परिगृह्य सर्वां
यथाहमेवं बलभिद्यथा वा॥ 1-36-23(1706)
सौतिरुवाच। 1-36-24x(172)
अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान्।
धास्यन्वसुधामेकः शासनाद्ब्रह्मणो विभोः॥ 1-36-24(1707)
सुपर्णं च सहायं वै भगवानमरोत्तमः।
प्रादादनन्ताय तदा वैनतेयं पितामहः॥ 1-36-25(1708)
`अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः।
अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः॥' ॥ 1-36-26(1709)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्त्रिंशोऽध्यायः॥ 37 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-36-1 उत्तरं अनन्तरम्॥ 1-36-23 अनन्तभोगैः अनन्तफणाभिः॥ षट्त्रिंशोऽध्यायः॥ 36 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|